श्री केतु अष्टोत्तरशतनामावली – केतु के 108 नाम !

केतु ग्रह को मोक्ष का कारक माना गया है. केतु का प्रभाव व्यक्ति के आत्मिक और आध्यात्मिक विकास को बढ़ाता है. केतु को आध्यात्म, वैराग्य, मोक्ष, तांत्रिक आदि का कारक माना जाता है केतु के लिए किसकी पूजा करनी चाहिए? हिंदू धर्म में भगवान श्री गणेश को केतु का कारक माना जाता है इसलिए जो भी व्यक्ति केतु के दोष से परेशान है उसे श्री गणेश की पूजा करनी चाहिए. बुधवार के दिन गणेश भगवान की पूजा करने से केतु के प्रकोप से शांति मिलती है. केतु के प्रकोप से परेशान व्यक्ति को शनिवार के दिन व्रत करना चाहिए !

श्री केतु अष्टोत्तरशतनामावली – केतु के 108 नाम

ॐ केतवे नमः । ॐ स्थूलशिरसे नमः । ॐ शिरोमात्राय नमः । ॐ ध्वजाकृतये नमः । ॐ नवग्रहयुताय नमः । ॐ सिंहिकासुरीगर्भसम्भवाय नमः । ॐ महाभीतिकराय नमः । ॐ चित्रवर्णाय नमः । ॐ पिङ्गलाक्षकाय नमः । ९ । ॐ फलोधूम्रसङ्काशाय नमः । ॐ तीक्ष्णदम्ष्ट्राय नमः । ॐ महोरगाय नमः । ॐ रक्तनेत्राय नमः । ॐ चित्रकारिणे नमः । ॐ तीव्रकोपाय नमः । ॐ महासुराय नमः । ॐ क्रूरकण्ठाय नमः । ॐ क्रोधनिधये नमः । १८ । ॐ छायाग्रहविशेषकाय नमः । ॐ अन्त्यग्रहाय नमः । ॐ महाशीर्षाय नमः । ॐ सूर्यारये नमः । ॐ पुष्पवद्ग्रहिणे नमः । ॐ वरदहस्ताय नमः । ॐ गदापाणये नमः । ॐ चित्रवस्त्रधराय नमः । ॐ चित्रध्वजपताकाय नमः । २७ । ॐ घोराय नमः । ॐ चित्ररथाय नमः । ॐ शिखिने नमः । ॐ कुलुत्थभक्षकाय नमः । ॐ वैडूर्याभरणाय नमः । ॐ उत्पातजनकाय नमः । ॐ शुक्रमित्राय नमः । ॐ मन्दसखाय नमः । ॐ गदाधराय नमः । ३६ । ॐ नाकपतये नमः । ॐ अन्तर्वेदीश्वराय नमः । ॐ जैमिनिगोत्रजाय नमः । ॐ चित्रगुप्तात्मने नमः । ॐ दक्षिणामुखाय नमः । ॐ मुकुन्दवरपात्राय नमः । ॐ महासुरकुलोद्भवाय नमः । ॐ घनवर्णाय नमः । ॐ लम्बदेहाय नमः । ४५ । ॐ मृत्युपुत्राय नमः । ॐ उत्पातरूपधारिणे नमः । ॐ अदृश्याय नमः । ॐ कालाग्निसन्निभाय नमः । ॐ नृपीडाय नमः । ॐ ग्रहकारिणे नमः । ॐ सर्वोपद्रवकारकाय नमः । ॐ चित्रप्रसूताय नमः । ॐ अनलाय नमः । ५४ । ॐ सर्वव्याधिविनाशकाय नमः । ॐ अपसव्यप्रचारिणे नमः । ॐ नवमे पापदायकाय नमः । ॐ पञ्चमे शोकदाय नमः । ॐ उपरागखेचराय नमः । ॐ अतिपुरुषकर्मणे नमः । ॐ तुरीये सुखप्रदाय नमः । ॐ तृतीये वैरदाय नमः । ॐ पापग्रहाय नमः । ६३ । ॐ स्फोटककारकाय नमः । ॐ प्राणनाथाय नमः । ॐ पञ्चमे श्रमकारकाय नमः । ॐ द्वितीयेऽस्फुटवग्दात्रे नमः । ॐ विषाकुलितवक्त्रकाय नमः । ॐ कामरूपिणे नमः । ॐ सिंहदन्ताय नमः । ॐ सत्ये अनृतवते नमः । ॐ चतुर्थे मातृनाशाय नमः । ७२ । ॐ नवमे पितृनाशकाय नमः । ॐ अन्त्ये वैरप्रदाय नमः । ॐ सुतानन्दनबन्धकाय नमः । ॐ सर्पाक्षिजाताय नमः । ॐ अनङ्गाय नमः । ॐ कर्मराश्युद्भवाय नमः । ॐ उपान्ते कीर्तिदाय नमः । ॐ सप्तमे कलहप्रदाय नमः । ॐ अष्टमे व्याधिकर्त्रे नमः । ८१ । ॐ धने बहुसुखप्रदाय नमः । ॐ जनने रोगदाय नमः । ॐ ऊर्ध्वमूर्धजाय नमः । ॐ ग्रहनायकाय नमः । ॐ पापदृष्टये नमः । ॐ खेचराय नमः । ॐ शाम्भवाय नमः । ॐ अशेषपूजिताय नमः । ॐ शाश्वताय नमः । ९० । ॐ नटाय नमः । ॐ शुभाऽशुभफलप्रदाय नमः । ॐ धूम्राय नमः । ॐ सुधापायिने नमः । ॐ अजिताय नमः । ॐ भक्तवत्सलाय नमः । ॐ सिंहासनाय नमः । ॐ केतुमूर्तये नमः । ॐ रवीन्दुद्युतिनाशकाय नमः । ९९ । ॐ अमराय नमः । ॐ पीडकाय नमः । ॐ अमर्त्याय नमः । ॐ विष्णुदृष्टाय नमः । ॐ असुरेश्वराय नमः । ॐ भक्तरक्षाय नमः । ॐ वैचित्र्यकपटस्यन्दनाय नमः । ॐ विचित्रफलदायिने नमः । ॐ भक्ताभीष्टफलप्रदाय नमः । १०८ ।

!! इति श्री केतु अष्टोत्तरशतनामावली  !!

श्री केतु कवच -केतु कवच केतु ग्रहों के प्रभाव को शांत करने और जीवन को सुखी, समृद्ध बनाने में मदद करता है। इसे धारण करने से व्यक्ति अध्यात्म का अभ्यास करने लगता है और इस प्रकार आंतरिक शांति, अच्छा स्वास्थ्य, धन और सर्वांगीण सुख प्राप्त करता है।

श्री केतु कवच –

श्री केतु कवच – Shri Ketu Kavach ओं अस्य श्रीकेतुकवचस्तोत्रमहामन्त्रस्य पुरन्दर ऋषिः । अनुष्टुप्छन्दः । केतुर्देवता । कं बीजं । नमः शक्तिः । केतुरिति कीलकम् । मम केतुकृत पीडा निवारणार्थे सर्वरोगनिवारणार्थे सर्वशत्रुविनाशनार्थे सर्व कार्य सिद्ध्यर्थे केतुप्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्  धूम्रवर्णं ध्वजाकारं द्विभुजं वरदांगदम्चित्राम्बरधरं केतुं चित्रगन्धानुलेपनम् । वैडूर्याभरणं चैव वैडूर्य मकुटं फणिम्चित्रंकफाधिकरसं मेरुं चैवाप्रदक्षिणम् ॥ केतुं करालवदनं चित्रवर्णं किरीटिनम् ।प्रणमामि सदा देवं ध्वजाकारं ग्रहेश्वरम् ॥ १ ॥ कवच चित्रवर्णः शिरः पातु फालं मे धूम्रवर्णकः ।पातु नेत्रे पिङ्गलाक्षः श्रुती मे रक्तलोचनः ॥ २ ॥ घ्राणं पातु सुवर्णाभो द्विभुजं सिंहिकासुतः ।पातु कण्ठं च मे केतुः स्कन्धौ पातु ग्रहाधिपः ॥ ३ ॥ बाहू पातु सुरश्रेष्ठः कुक्षिं पातु महोरगः ।सिंहासनः कटिं पातु मध्यं पातु महासुरः ॥ ४ ॥ ऊरू पातु महाशीर्षो जानुनी च प्रकोपनः ।पातु पादौ च मे रौद्रः सर्वाङ्गं रविमर्दकः ॥ ५ ॥ इदं च कवचं दिव्यं सर्वरोगविनाशनम् ।सर्वदुःखविनाशं च सत्यमेतन्नसंशयः ॥ ६ ॥ इति पद्मपुराणे केतु कवचम् ।